श्रीमयूरकविकृतेषु - संस्कृतकाव्येषु - मन्त्ररामायणम् ।
॥ मङ्गलाचरणम् ॥ श्री रामं मुदिरश्यामं वन्देऽहं देवनायकम् । सदा वदान्यप्रवरं प्रणतेप्सितदायकम् ॥१॥ रा कापतिमुखीं देवीं वन्दे सीतां महासतीम् । यस्याः सद्व्रतसामर्थ्याच्छमिता अमिता द्विषः ॥२॥ म हामतीन्सदा वन्दे लक्ष्मणादि रघूद्वहान् । येषां पुमर्थाः स्वप्नेऽपि परमा न रमाधवात् ॥३॥ ज गद्गुरुगुरुं वन्दे वसिष्ठं तपसां निधिम् । द्विजराज इति प्राहुर्य सर्वे ब्राह्मणाः सुराः ॥४॥ य स्तपस्वीश्वरः साक्षान्महादेव इव प्रभुः । वन्दे तं गाधिजं तेजोनिधिना विधिना समम् ॥५॥ रा शिं सुतपसां शुद्धज्ञानदानविशारदम् । नारदं सन्मुनिं वन्दे भवाब्धेः परपारदम् ॥६॥ म नोज्ञं रामचरितं येन गीतं सविस्तरम् । वाल्मीकिं तमहं वन्दे मन्देष्टशतसाधकम् ॥७॥ ज गत्प्राणसुतं वन्दे हनूमन्तं महौजसम् । यः श्रीरामकथासिन्धौ चेतसा वेतसायितः ॥८॥ य शस्विप्रवरं वन्दे सुग्रीवं वानरेश्वरम् । सम्प्राप्तौ हेतुरार्याया भार्याया राघवस्य यः ॥९॥ ज लधौ येन रचितः सेतुर्हेतुर्जयश्रियः । तं नलं वानरं वन्दे यं देवाः धन्यमूचिरे ॥१०॥ य त्नं ये चक्रुरनिशं जाम्बवत्प्रमुखा भृशम् । तानृक्षानङ्गदादीन्श्च वन्दे रामानुगान्कपीन् ॥११॥ रा जश्रेष्ठं दशरथं कौसल्याद्या...