श्रीमयूरकविकृतेषु - संस्कृतकाव्येषु - मन्त्ररामायणम् ।
॥ मङ्गलाचरणम् ॥
श्रीरामं मुदिरश्यामं वन्देऽहं देवनायकम् । सदा वदान्यप्रवरं प्रणतेप्सितदायकम् ॥१॥
राकापतिमुखीं देवीं वन्दे सीतां महासतीम् । यस्याः सद्व्रतसामर्थ्याच्छमिता अमिता द्विषः ॥२॥
महामतीन्सदा वन्दे लक्ष्मणादि रघूद्वहान् । येषां पुमर्थाः स्वप्नेऽपि परमा न रमाधवात् ॥३॥
जगद्गुरुगुरुं वन्दे वसिष्ठं तपसां निधिम् । द्विजराज इति प्राहुर्य सर्वे ब्राह्मणाः सुराः ॥४॥
यस्तपस्वीश्वरः साक्षान्महादेव इव प्रभुः । वन्दे तं गाधिजं तेजोनिधिना विधिना समम् ॥५॥
राशिं सुतपसां शुद्धज्ञानदानविशारदम् । नारदं सन्मुनिं वन्दे भवाब्धेः परपारदम् ॥६॥
मनोज्ञं रामचरितं येन गीतं सविस्तरम् । वाल्मीकिं तमहं वन्दे मन्देष्टशतसाधकम् ॥७॥
जगत्प्राणसुतं वन्दे हनूमन्तं महौजसम् । यः श्रीरामकथासिन्धौ चेतसा वेतसायितः ॥८॥
यशस्विप्रवरं वन्दे सुग्रीवं वानरेश्वरम् । सम्प्राप्तौ हेतुरार्याया भार्याया राघवस्य यः ॥९॥
जलधौ येन रचितः सेतुर्हेतुर्जयश्रियः । तं नलं वानरं वन्दे यं देवाः धन्यमूचिरे ॥१०॥
यत्नं ये चक्रुरनिशं जाम्बवत्प्रमुखा भृशम् । तानृक्षानङ्गदादीन्श्च वन्दे रामानुगान्कपीन् ॥११॥
राजश्रेष्ठं दशरथं कौसल्याद्याश्च तत्प्रियाः । जनकं च महाराजं वन्दे श्रीरामवन्दितम् ॥१२॥
महीसुरान्वामदेवप्रमुखानृत्विजः प्रभोः । श्रीकेशवं श्रीगणेशं वन्दे विद्यागुरुं हरिम् ॥१३॥
॥ कथाप्रस्तावः ॥
श्रीरामचरितं पुण्यं सङ्क्षेपान्नारदो मुनिः । पृच्छते प्रथमं प्राह प्रेम्णा वाल्मीकये सते ॥१४॥
राशिरत्यच्छतपसां वाल्मिकिर्ब्रह्मणो वरात् । चक्रे रामायणं नाम महाकाव्यं महाकविः ॥१५॥
महाकाव्यं पठन्त्सभ्यांश्च्छ्रावयेत्कः सभास्विदम् । इति चिन्तयतस्तस्य पादग्रहणमाहृतौ ॥१६॥
जनकस्य सुतापुत्रौ कृतवन्तौ गुणार्णवौ । शिष्यौ कुशलवौ यौ तत्तावग्राहयत प्रभुः ॥१७॥
यदा वचोविधेयं तत्कृत्वा ताभ्यां मुनिव्रजे । गीतं प्रीतं तयोस्तेषां चित्तं सर्वतपस्विनाम् ॥१८॥
राकापतिः स्वामृतेन चकोरानिव तानृषीन् । अर्थेन पौलस्त्यवधप्रबन्धः समतर्पयत् ॥१९॥
मधुरेणादिकाव्यस्य स्वच्छेन मुनयोऽखिलाः । रसेनाम्बुमुचोऽत्यर्थं चातका इव तर्पिताः ॥२०॥
जगन्मनोहरं धीरौ तौ वीणास्वरमिश्रितम् । चतुर्मुखवरोद्भूतं महाकाव्यमगायताम् ॥२१॥
यच्छ्रुत्वा मुनयस्ताभ्यां ते प्रेमाश्रुपरिप्लुताः । वल्काजिनबृषीदण्डकमण्डलुकुशान्ददुः ॥२२॥
जनात्कथयतः श्रुत्वा गन्धर्वाविव गायनौ । नीतौ सदसि रामेण साकेते श्रोतुमुत्तमम् ॥२३॥
यथोपदेशं वाल्मीकेः कृतिं सुकृतिनां वरौ । आदितः कृतिनौ रामं श्रावयामासतुर्मुदा ॥२४॥
रावणारिर्वसिष्ठाद्यैर्ब्राह्मणैर्भ्रातृभिः प्रियैः । सचिवैः सह शुश्राव स्वं माहात्म्यं सभां गतः ॥२५॥
महर्षिणा स्वयं गीतमिति माहात्म्यमात्मनः । अपूर्वमिव लोकेशः श्रुतवानित्थमादरात् ॥२६॥
॥ बालकाण्डं ॥
श्रीमान्दशरथः सूर्यवंश आसीन्नृपोत्तमः । समस्त सत्पालनतो यः साक्षाद्विष्णुना समः ॥२७॥
राजधान्यामयोध्यायामुवास नयवित्कविः । रविः स्वशत्रुतमसः पुण्यात्मानुपमच्छविः ॥२८॥
महिषी तस्य कौसल्या कैकेयी दयिता भृशम् । सुमित्रा विनयोपेता पत्यौ यत्प्रेम नो कृशम् ॥२९॥
जन्म स्वमफलो मेने सोऽनपत्योऽतिचिन्तया । नाभ्यनन्दच्छ्रियं गुर्वीं योऽपुत्रस्तस्य किं तया ॥३०॥
यष्टुं तुरगमेधेन सन्तत्यर्थं गुरुं मुनिं । पृष्ट्वा नृपो मनश्चक्रे शक्रेष्टकृदुदारधीः ॥३१॥
राजा सनत्कुमारोक्तं विभाण्डकमुनेः सुतं । आनिन्ये स्वेष्टसिद्ध्यर्थं सुमन्त्रात्सचिवाच्छ्रुतम् ॥३२॥
महर्षिं लोमपादस्य सख्युर्जामातरं प्रियं । शान्तया कान्तया साकमृष्यशृङ्गं तपोनिधिम् ॥३३॥
जपतां वर आयाते तस्मिन्त्सर्वस्वदक्षिणः । अश्वमेधोऽभवद्राज्ञः सर्वेषां विस्मयावहः ॥३४॥
यज्नादनन्तरं चक्रे पुत्रीयामिष्टिमस्य सः । स्वभागग्रहणायास्यां सुराः सर्वे समागताः ॥३५॥
जगतां पीडकं हन्तुं रावणं वरदर्पितं । ब्रह्माणं प्रार्थयामासु - 'रुपायं चिन्तये'ति तम् ॥३६॥
यदैवं प्रार्थितो धाता सञ्चिन्तोपायमब्रवीत् । 'वव्रेऽभयं न मर्त्येभ्योऽवज्ञया दशकन्धरः ॥३७॥
राक्षसेन्द्रो नरात्तस्मान्नाशं प्राप्स्यति सर्वथा' । विधावित्थं वदत्यत्राययौ विष्णुर्महायशाः ॥३८॥
'मनुष्यस्त्वं भवे' त्यूचुः प्रणतास्त्रिदशाः प्रभुम् । 'राज्ञो दशरथस्यास्य स्त्रीषु हन्तुं निशाचरं'॥३९॥

Comments
Post a Comment